सस्कृत अनुवाद; कुलदीप मैंदोला
सः स्मित: सन् उच्चै: हसन्, अन्यान् हासयति स्म । यः तस्य समीपम् आगतः, सः क्षणद्वयस्य सुखं हरति स्म। एकदा कश्चित् उक्तवान् – सः विदूषकः अस्ति। सः एतत् सर्वं स्वं परितः जनसमूहसम्मर्दं सङ्गृहीतुं करोति
श्रुत्वा सः मौनेन आच्छादितोभवत् । हसनं हास्यं च त्यक्तवान्। तस्य भ्रूः ऋजुः अभवत् । मुष्टयः दृढबद्धा: च अधरौ आकुञ्चितौ।
सः कठोर-हृदयहीनजनेषु गण्यते स्म । सः सुप्तसमये कठोरतामुखमुकुट़म् उद्धृत्य लम्बकस्य उपरि लम्बयति स्म । तस्य मुखस्य उपरि बालसदृशं स्मितं स्फुरति स्म । पक्ष्मपिधानं भवति स्म। कतिपयेषु क्षणेषु गभीरा निद्रा समाक्रमति स्म।
‘एतावत् अभिमानस्य किं प्रयोजनम्’ इति जनाः पृष्ठतः वार्तालापं कर्तुम् आरब्धवन्तः । उड्डयन् इव तस्य कर्णयोः अपि एतत् वचनं प्राप्तम् ।
सः शयन्मुखं जागृत्य भ्रमणार्थं निर्गतवान्। सः स्वस्य तत् मुकुटं गभीरे खाते क्षिप्तवान्।
सः पुनरागमने अतीव निश्चिन्तः आसीत् । सः मार्गे अतीव दुःखी व्यक्तिं मिलितवान् । सः आत्मानं निवारयितुं न शक्तवान्। सः दुःखितस्य पार्श्वे निवृत्य तस्य ललाटं स्पृशति स्म। उष्णदह्यमानस्य ललाटे शीतजलस्य आर्द्रपट्टिकां स्थापितम् इव ।
तस्य तापः किञ्चित् कालेन एव अन्तर्धानं जातः । दुःखितः पुरुषः पुष्पवत् प्रफुल्लितः।
अग्रिमदिने मार्गे अश्रुपूर्णं मुखं प्रादुर्भूतम् ।
सः प्रतिरोधं कर्तुं न शक्तवान् । सः तस्य मुखस्य समीपे एव स्थगितवान्। चालितः सन् सः अश्रुपूर्णाक्षिणः मार्जयामास। तस्य प्रवहन्तः लवणाः अश्रुः अन्तर्धानं जातः। प्रभातस्य स्मितं दीप्तमुखे प्रसृतम्।
कश्चित् उक्तवान् – यस्य ललाटं स्पृष्टं नेत्रं च मार्जितम्, सः दुःखी बालकः आसीत्।
कश्चन अवदत्- ‘सः जीवनेन निराशः युवा आसीत्।’
कश्चित् अवदत् – ‘सा स्त्री आसीत्।’
दश जनाः अपि अवदन् – ‘सा सुन्दरी आसीत्।’
सायं यावत् एकः विक्षिप्तः पुरुषः सार्वजनिकरूपेण एकां स्त्रियं बलात् स्पृष्टवान् इति जनसमूहः अवदत् ।
अग्रिमदिने तस्य वास्तविकं मुखं चतुष्पथे मर्दितं शयितम् आसीत् । अद्यापि तस्य अधरात् स्मितं आगच्छति स्म।
तस्य नेत्रेभ्यः मार्जिताः अश्रुपाताः प्रवहन्ति स्म । तस्य ललाटं ज्वरेण प्रज्ज्वलितम् आसीत् । जनाः वदन्ति स्म यत् सः आत्महत्यां कृतवान् इति ।
-0-